तनि पति इत्येतयोः छन्दसि विषये उपधाया लोपो भवति अजादौ क्ङिति प्रत्यये परतः। वितत्निरे कवयः। शकुना इव पप्तिम। छन्दसि इति किम्? वितेनिरे। पेतिम।
"वितत्निरे" इति।
अत्र यद्युपधालोपस्यासिद्धत्वम्? तथापि लोपविधानसामथ्र्यात्? "अत एकहल्मध्ये"
६।४।१२० इत्यादिनैत्वाभ्यासलोपौ न भवतः। "पप्तिमा" इति।
लिट्? क्रादिनियमादिट्()॥